(f) धिपति श्रीमद्विजय सिंह देवपतेर्द्विजयिनः महाराज्ञीश्रीमहाकुमारः श्रीअजयसिंहदेवः महामं त्रिशैवाचार्य्यभट्टारक श्रीमद्राजगुरु विद्या देवमहापुरोहितपण्डितयज्ञधरधर्म्मप्रधानमहामात्यठकुर श्रीकीकी महाक्षपटलिक महाप्रधानार्थले खिठक्कुर श्रीदशमूलिकवत्सराज महासान्धिविग्रहिकठकुर पुरुषीत्तम महाप्रतीहारदुष्टसाध्यचरा ध्यक्षभाण्डागारिकप्रभत्त बारणाश्वस्वाधीनका इत्येतानन्यांश्च प्र दास्यमानग्रामनिवासिजनपदांश्चाहययथार्ह मानयति बोधयति समाज्ञापयति च । यथाविदितमस्तुभवतां । संवत् ८३२ । श्रीमन्ति पु युगादौ नर्मदायां विधिवत्स्नात्वा श्रीमन्महादेवं समभ्यर्च्य मातापित्रोरात्मनश्च पुण्य यशोतिवृद्धये सम्वलपत्तलायांचोरलयो ग्रामञ्चतुःसीमापर्य्यन्तश्चतुराघाटविसर्गः सगोप्रचारः सजलस्थलः साम्त्रमधूकः सलवणाकरः सगतीषरः सनिर्गमप्रवेशः सजांगलानूपो वृक्षारामोद्भिदोद्याततृणादिसहितः (h) (g) अई पुरुषारिकादायादिसमन्वितः स्वनपर्व्वतः सर्व्व वाधाविव ज्र्ज्जितः ग्रामोथं सावर्णगोत्राय भार्गव च्यवन् आप्नुवाम् और्ब जाम दग्न्यति पञ्चमबराय छन्दोगशाखिने पण्डितश्रीजनाईन प्रपौत्राय पण्डित श्रीसूणपौत्राय पण्डितश्रीकितुयुत्राय पण्डितश्रीसीढ शर्मणे ब्राह्मणायोदकपूर्वकथनं शासनीकृत्यास्मदभ्यनुज्ञया मातृ श्रीमद्गासलदेव्या प्रदत्तः । अत्रचाभ्यर्थनादातुर्भवति यथा ॥ सर्व्वानेतान् भाविनः पार्थिवेन्द्रान सामान्योभ्यं धर्म्मसेतुर्नृपाणां कालेकाले पालनीयो भवद्भिः ॥२७॥ (f) Correction. (g) Sic in original. (h) Here a line is obliterated. वहुभिर्बसुधा भुक्ता राजभिः सगरादिभिः । यस्य यस्य यदा भूमिस्तस्य तस्य तदा फलं ॥२८॥ सुवर्णमेकं गामेकां भूमेरप्येकमङ्गुलं । हरन्नरकमाप्नोति यावदाभूतसंप्लवं ॥२८॥ तडागानां सहस्रेण अश्वमेधशतेनच । गवां कोटिप्रदानेन भूमिहर्त्ता न शुध्यति ॥३०॥ स्वदत्तां परदत्तां वा यो हरेत वसुन्धरां । स विष्ठायां कृमिर्भूत्वा पितृभिः सह मज्जति ॥३९॥ फालकृष्टां महीं दद्यात् सवीजां सस्यशालीनीं । यावत् स्वयं कृतां लोकस्तावत् स्वर्गे महीयते ॥३२॥ षष्टिवर्षसहस्त्राणि स्वर्गे वसति भूमिदः आच्छेत्ता चानुमन्ता च तान्येवनरके वसेत् ॥ ३३॥ वारिहीनेष्वरष्येषु शुष्ककोटरवासिनः । कृष्णसर्पस्तु जायन्ते देवब्रह्मस्वहारिणः ॥३४॥ अन्यायेन हृता भूमिरन्यायेन तु हारिता । हरतो हारयतश्च दहत्या सप्तमंकुलं ॥ ३५॥ अस्मत् कुल क्रमगताः समुदाहरन्ति अन्यैश्च दानमिदमभ्युपमोदनीयं । लक्ष्मीश्चला सलिलवुडुदवन्नराणां (i) दानं फलं परमतः परिपालनीयं ||३६|| (i) In original द्व प्रजाहितार्थं स्थितयः प्रणीता धर्मेषु विद्वान् परिपालयेत । यानीह दत्तानि पुरा न रेन्द्रे को नाम साधुः पुनराददीत ॥ ३८ ॥ भूमिं यः प्रतिगृह्णाति यश्च भूमिं प्रयच्छति । उभौ तौ पुण्यकर्म्माणौ नियतं स्वर्गगामिनी ॥ ३८ ॥ शंखो भद्रासनं छत्रं धराश्वावरवारणाः । भूमिदानस्य चिह्नानि फलमेतत् पुरन्दर ॥४०॥ अस्मिन् वंशेय्न्यवंशे च यः कश्चिन्नृपतिर्भवेत् । तस्याहं हस्तलग्नोस्मि शासनं न व्यतिक्रमेत् ॥४१॥ वाताभ्वविम्वममिदं वसुधाधिपत्य मापातमात्र मधुरो विषयोपभोगः । प्राणास्तृणाग्रजलविन्दुसमा नराणां धर्म्मः सखा परमहोपरलोकयाने ॥४२॥ |